SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ व्यवहारदर्शनविधिः। कुलानि श्रेणयश्चैव गणाश्चाधिकृता नृपः । प्रतिष्ठा व्यवहारस्य गुर्वेषामुत्तरोत्तरम् ।।७ स चतुष्पाञ्चतुः स्थानश्चतुः साधन एव च । चतुर्हितश्चतुर्व्यापी चतुष्कारीति कीर्त्यते ॥८ अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च । त्रियोनियभियोगश्च द्विारो द्विगतिस्तथा । धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । चतुष्पाब्यवहारोऽयमुत्तरः पूर्वबाधकः ।।१० तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ।।११ सामाधुपायसाध्यत्वाच्चतुः साधन उच्यते । चतुर्णामाश्रमाणां च रक्षणात्स चतुर्हितः ॥१२ कर्तृ नथो साक्षिणश्च सभ्यात्राजानमेव च । व्याप्नोति पादशो यस्माचतुर्व्यापी ततः स्मृतः ॥१३ धर्मस्यार्थस्य यशसो लोकपक्तस्तथैव च । चतुर्णा करणादेषां चतुष्कारी प्रकीर्तितः ॥१४ राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ । हिरण्यमग्निरुदकमष्ठाङ्गः स उदाहृतः ॥१५ ऋणादानं ह्युपनिधिः सम्भूयोत्थानमेव च। दत्तस्य पुनरादानमशुश्रूषाभ्युपेत्य च ।।१६ वेतनस्यानपाकर्म तथैवास्वामिविक्रयः । विक्रीयासम्प्रदानं च क्रीत्वानुशय एव च ।।१७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy