SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ * नारदीयमनुस्मृतिः * ।। श्रीगणेशाय नमः। अथादौ-व्यवहारदर्शनविधिः । मनुः प्रजापतिर्यस्मिन्काले राज्यमबूभुजत् । धर्मकतानाः पुरुषास्तदासन् सत्यवादिनः ॥१ नष्टे धर्मे मनुष्येषु व्यवहारः प्रकल्पितः। द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ।।२ लिखितं साक्षिणश्चात्र द्वौ विधी सम्प्रवर्तितौ । सन्दिग्धार्थविशुद्धयर्थं द्वयोर्विवदमानयोः ॥३ सोत्तरोऽनुत्तरश्चैव स विज्ञयो द्विलक्षणः। सोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः॥४ विवादे सोत्तरपणे द्वयोर्यस्तत्र हीयते । स पणं स्वकृतं दाप्यो विनयं च पराजये ।।५ सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy