SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ स्यायः] धर्मनिर्णयकर्तृकपुरुषवर्णनम् ।। वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् । इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते ॥१०२ अज्ञेभ्यो प्रन्थिनः श्रेष्ठा प्रन्थि यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥१०३ । तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा किल्विषं हन्ति विद्ययाऽमृतमश्नुते ॥१०४ प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम । त्रयं सुविदितं कार्य धर्मशुद्धिमभीप्सता ॥१०५ आषं धर्मोपदेशं च वेदशास्त्राविरोधिना। यस्तणानुसंधत्ते स धर्म वेद नेतरः॥१०६ नैःश्रेयसमिदं कर्म यथोदितमशेषतः। मानवस्यास्य शास्त्रस्य रहस्यमुपदेक्ष्यते (दिश्यते) ॥१०७ अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ।।१०८ धर्मेणाधिगतो यैस्तु वेदः सपरिवृहणः। ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥१०६ दशावरा वा परिषद्यं धर्म परिकल्पयेत् । त्र्यवरा वापि वृत्तस्था तं धर्म न विचालयेत् ।।११० विद्यो हेतुकस्ती नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्व परिषत्स्याहशावरा ॥१११ ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च । त्र्यवरा परिषज्ञया धर्मसंशयनिर्णये ॥११२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy