SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २४६ मनुस्मृतिः। [द्वादशो सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥९१ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥६२ एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः । प्राप्यतत्कृतकृत्यो हि द्विजो भवति नान्यथा ।।६३ पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् । अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ।।६४ या वेदवाह्याः श्रुतयो (स्मृतयो) याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥६५ उत्पद्यन्ते विनश्यन्ति(वन्तेच)यान्यतोऽन्यानिकानिचित् । तान्यक्किालिकतया निष्फलान्यनृतानि च ।।६६ चातुर्वण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् । भूतं भवद्भविष्यं च सर्वं वेदात्प्रसिध्यति ॥६७ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पंचमः। वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः ।।६८ विभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् । तस्मादेतत्परं मन्ये यजन्तोरस्य साधनम् ।।६६ सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च । सर्वलोकाधिपत्यं च वेदशास्त्रविदहति ॥१०० यथा जातबलो वह्निर्दहत्यानपि दुमान् । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः॥१०१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy