________________
ऽध्यायः] कृतकर्मफलवर्णनम् ।
२४५ जरां चैवाप्रतीकारा व्याधिभिश्चोपपीडनम् । क्लेशांश्च विविधातांस्तान्मृत्युमेव च दुर्जयम् ।।८० यादृशेन तु भावेन यद्यत् कर्म निषेवते । तादृशेन शरीरेण तत्तत्फलमुपाश्नुते ।।८१ एष सर्वः समुदिष्टः कर्मणां वः फलोदयः । नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥८२ वेदाभ्यासस्तपोज्ञानमिन्द्रियाणां च संयमः । अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ।।८३ सर्वेषामपि चैतेषां शुभानामिह कर्मणाम् । किंचिच्छे यस्करतरं कर्मोक्तं पुरुषं प्रति ॥८४ सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तद्धयप्रयं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥८५ षग्णामेषां तु पूर्वेषां कर्मणां प्रेत्य चेह च । श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥८६ वैदिके कर्मयोगे तु सर्वाण्येतान् यशेषतः । अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन्क्रियाविधौ ॥८७ सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।।८८ इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीयते । । निष्कामं ज्ञातपूर्व तु निवृत्तमुपदिश्यते ॥८६ प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम् । निवृत्तं सेवमानस्तु भूतान्येत्येति पञ्च वै ॥६०