________________
२४४
मनुस्मृतिः।
[ द्वादशो त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः॥६६ स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि । पापान्संसृत्य संसारान्प्रेष्यतां यान्ति (दस्युषु) शत्रुषु ।।७० वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः । अमेध्यकुणपाशी च क्षत्रियः कूटपूतनः ।।७१ मैत्राक्षिज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्च्युतः ॥७२ यथा यथा निषेवन्ते विषयान्विषयात्मकाः । तथा तथा कुशलता तेषां तेषूपजायते ॥७३ तेऽभ्यासात्कर्मणां तेषां पापानामल्पबुद्धयः । संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु ।।७४ तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् । असिपत्रवनादीनि बन्धनच्छेदनानि च ॥७५ विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् । करम्भबालुकातापान्कुम्भीपाकांश्च दारुणान् ।।७६ संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः । शीतातपाभिघातांश्च विविधानि भयानि च ।।७७ असकृद्गर्भवासेषु वासं जन्म च दारुणम् । बन्धनानि च कष्टानि परप्रेष्यत्वमेव च ॥७८ बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनः । द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥७६