SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २४८ मनुस्मृतिः। [द्वादशो एकोऽपि वेदविद्धर्म यं व्यवस्येद्विजोत्तमः । स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतः ॥११३ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्वं न विद्यते ॥११४ यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः । तत्पापं शतधा भूत्वा तद्वक्तृननुगच्छति ।।११५ एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम् । अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ।। ११६ एवं स भगबान्देवो लोकानां हितकाम्यया । धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान् ॥११७ सर्वमात्मनि संपश्येत्सच्चासच्च समाहितः । सर्व ह्यात्मनि संपश्यन्नाधर्मे कुरुते मतिम् (मनः) ॥११८ आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् । आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥११६ खं सन्निवेशयेत्वेषु चेष्टनस्पर्शनेऽनिलम् । पक्तियोः परं तेजः स्नेहेऽपो गां च मूर्तिषु ॥१२० मनसीन्दु दिशः श्रोत्रे क्रान्ते विष्णु बले हरम् । वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥१२१ प्रशासितारं सर्वेषामणीयांसमणोरपि । रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुष परम् ॥१२२ एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥१२३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy