________________
२३६
ऽध्यायः] कर्मणां शुभाशुभफलवर्णनम् ।
तावुभौ भूतसंपृक्तौ महान्क्षेत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥१४ असंख्या मूर्तयस्तत्य निष्पतन्ति शरीरतः । उच्चावचानि भूतानि सततं चेटयन्ति याः ॥१५ पञ्चभ्य एव भूतेभ्यः (मात्राभ्यः) प्रेत्य दुष्कृतिनां नृणाम् । शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ॥१६ तेनानुभूय ता यामीः शरीरेणेह यातनाः । तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः॥१७ सोऽनुभूयासुखोदर्कान्दोषान्विषयसङ्गजान् । व्यपेतकल्मषोऽभ्येति तावेवोभी महौजसौ ॥१८ तो धर्म पश्यतस्तस्य पापं चातन्द्रितौ सह । याभ्यां प्राप्नोति संपृक्तः प्रत्येह च सुखासुखम् ॥१६ यथाचरति धर्म स प्रायशोऽधर्ममल्पशः । तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते ॥२० यदि तु प्रायशोऽधर्म सेवते धर्ममल्पशः । तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ।।२१ यामोस्ता यातनाः प्राप्य स जीयो वीतकल्मषः । तान्येव पञ्चभूतानि पुनरप्येति भागशः ।।२२ एता दृष्टाऽस्य जीवस्य गतीः स्वेनैव चेतसा । धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः।।२३ सत्त्वं रजस्तमश्चैव त्रीन्विद्यादात्मनो गुणान् । यैर्व्याप्येमान्स्थितो भावान्महान्सर्वानशेषतः ।।२४