SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २३५ ऽध्यायः] तपमहत्त्वफलवर्णनम्। कीटाश्चाहिपतङ्गाश्च पशवश्च वयांसि च । खावराणि च भूतानि दिवं यान्ति तपोबलात् ।।२४१ यत्किञ्चिदेनः कुर्वन्ति मनोवाङ्मूर्ति (कर्म) भिर्जनाः । तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ।।२४२ तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः । इज्याश्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च ।।२४३ प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः । तथैव वेदानृषयस्तपसा प्रतिपेदिरे ।।२४४ इत्ये (यदे) तत्तपसो देवा महाभाग्यं प्रचक्षते । सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्य (मुद्भवम्) मुत्तमम् ।।२४५ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमा । नाशयन्त्याशु पापानि महापातकजान्यपि ।।२४६ यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् । तथा ज्ञानाग्निना पापं सर्व दहति वेदवित् ।।२४७ इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि । अत उध्वं रहस्यानां प्रायश्चित्तं निवोधत ।।२४८ सव्याहृतिप्रगवकाः प्राणायामास्तु षोडश । अपि भ्रूणहणं मासात्युनन्त्यहरहः कृताः ।।२४६ कौत्सं जप्त्वाप इत्येतद्वासिष्ठं च प्रतीत्युचम । माहित्रं शुद्रवत्यश्च सुरापोऽपि विशुध्यति ॥२५० सकृजप्त्वाऽस्य वामीयं शिवसङ्कल्पमेव च । अपहृत्य सुवणं तु क्षणाद्भवति निर्मलः ॥२५१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy