________________
२३४
मनुस्मृतिः। [एकादशो यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥२३० कृत्वा पापं हि सन्तप्य तस्मात्पापात्प्रमुच्यते । नैवं कुर्या पुनरिति निवृत्या पूयते तु सः ॥२३१ एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् । मनोवाङमूर्तिभिनित्यं शुभं कर्म समाचरेत् ।।२३२ अज्ञानाद्यदि वा ज्ञानात्कृवा कर्म विगर्हितम् । तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ।।२३३ यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम् । तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥२३४ तपोमूलमिदं सर्व दैवमानुषकं सुखम् । तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ।।२३५ ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ।।२३६ ऋषयः संयतात्मनः फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ।।२३७
औषधान्यगदो (गदा) विद्या दैवी च विविधा स्थितिः । तपसैव प्रसिद्धयन्ति तपस्तेषां हि साधनम् ॥२३८ यस्तरं यदुरापं यदुर्ग यञ्च दुष्करम् ।। सर्व तत् तपसा साध्यं तपो हि दुरतिक्रमम् ॥२३६ महापातकिनश्चैव शेषाचा कार्यकारिणः । तपसैव सुतप्तेन मुच्यन्ते किल्विषात्ततः ॥२४०