SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २२ ऽध्यायः] प्रायश्चित्तवर्णनम्। सत्यमुक्त्वा तु विप्रेषु विकिरेघवसं गवाम् । गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥१६७ ब्रात्याना याजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छय॑पोहति ॥१६८ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः। संवत्सरं यवाहारस्तत्पापमपसेधति ॥१६६ श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥२०० षष्ठान्नकालता मासं संहिताजप एव वा। होमाश्च शाकला नित्यमपांत्यानां विशोधनम् ।।२०१ उष्ट्रयानं समारुह्य खरयानं तु कामतः । स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥२०२ विनाऽगिरप्सु वाऽप्यातः शारीरं सन्निषेव्य च । सचैलो वहिराप्लुत्य गामालभ्य विशुद्धति ।।२०३ वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकातलोपे च प्रायश्चित्तमभोजनम् ॥२०४ हुंकारं ब्राह्मगस्योक्त्वा त्वंकारं च गरीयसः। स्नात्वाऽनश्नन्नः शेषमभिवाद्य प्रसादयेत् ।।२०५ ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा । विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥२०६ अवर्य त्वन्दरातं सहस्रमभिहत्य च । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥२०७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy