SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २२४ [ एकादशी मनुस्मृतिः । हुत्वाऽग्नौ विधिवद्धोमानन्ततश्च समेत्यृचा । वातेन्द्र गुरुवह्नीनां जुहुयात्सर्पिषाऽऽहुतीः ॥ १२० कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ।। १२१ मारुतं पुरुहूतं च गुरुं पावकमेव च । चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥ १२२ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागाश्चरेद्वैश स्वकर्म परिकीर्तयन् || १२३ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् । उपस्पृशं स्त्रिषवणं त्वब्देन स विशुद्धयति ॥ १२४ जातिभ्रंशकः कर्म कृत्वाऽन्यतममिच्छया । चरेत्सतिपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ १२५ सङ्करापात्रकृत्यासु मासं शोधनमैन्दवः । मलिनीकरणीयेषु तप्तः स्याद्यावकैरुयहम् ||१२६ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतः । वैश्येseमांश वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥ १२७ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । वृषभैकसहस्रा गां दद्यात्सुचरितव्रतः ॥ १२८ व्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् । वसन्दूरतरे ग्रामाद्वृक्षमूलनिकेतनः ॥ १२६ एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्थं दद्याचैकशतं गवाम् ॥१३०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy