________________
२२०
मनुस्मृतिः ।
[ एकादशो
जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् । ब्रह्महत्यापनोदाय मितभुनियतेन्द्रियः ॥७६ सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं गृहं वासः परिच्छदम् ॥७७ हविष्यभुग्वाऽनुसरेत्प्रतिस्रोतः सरस्वतीम् । जपेद्वा नियताहारस्त्रिर्वे वेदस्य संहिताम् ॥७८ कृतवापनो निवसेदप्रामान्ते गोब्रजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥७६ त्राह्मणार्थे गवार्थे वा सद्यः ( सम्यक् ) प्राणान्परित्यजेत् । मुच्यते ब्रह्महत्याया गोता गोर्ब्राह्मणस्य च ॥ ८० व्यवरं प्रतिरोद्धा वा सर्वस्त्रमवजित्य वा । विप्रस्य तन्निमित्ते वा प्राणालाभेऽपिमुच्यते ॥८१ एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाप्त द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ८२ शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वमेोऽवभृथस्नातो हयमेधे विमुच्यते ॥ ८३ धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते । तस्मात्समागमे तेषामेनोविख्याप्य शुध्यति ॥८४ ब्राह्मणः सम्भवेनैव देवानामपि दैवतम् । प्रमाणं चैव लोकस्य ब्रह्मात्रै हि कारणम् ||८५ तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम् । सा तेषां पावनाय स्यात्पवित्रं विदुषां हि चाकू ॥८६