SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रायश्चित्तवर्णनम। अतोऽन्यतममास्थाय विधि विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥८७ हत्वा गर्भमविज्ञातमेतदेव ब्रतं चरेत् । राजन्यवैश्यौ चेजानावात्रेयीमेव च स्त्रियम् ।।८८ उक्त्वा चैवानृतं साक्ष्ये प्रतिरुद्रय (रभ्य) गुरुं तथा । अपहृस्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ।।८६ इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे. निष्कृतिन विधीयते ।।१० सुरां पीत्वा द्विजो मोहादग्निवर्णा सुरां पिवेत् । तया स काये निर्दग्धे मुच्यते किल्विषात्ततः ।।६ गोमूत्रमनिवर्ण वा पिबेदुदकमेव वा। पयो घृतं वाऽऽमरणाद्गोशकृद्रसमेव वा ।।१२ कणान्वा भक्षयेदब्दं पिण्याकं वा सकृग्निशि । सुरापानापनुत्यर्थ बालवासा जटी ध्वजी॥६३ सुरां वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ।।१४ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ।।६५ यक्षरक्षः पिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ।।६६ अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेद् । अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहतः ॥१७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy