SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २१८ मनुस्मृतिः। [एकादशो चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्यैहि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥५४ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥५५ अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्वाली कनिबन्धः समानि ब्रह्महत्यया ।।५६ ब्रह्मोभाता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥५७ निक्षेपस्यापहरणं नराश्वरजतस्य च । भूमिवज्रमणीनां च रुम्मस्तेयसमं स्मृतम् ।।५८ रेतः सेकः स्वयोनीपु कुमारीष्वन्त्यजामु च । सख्युः पुत्रत्य च स्त्रीषु गुरुतल्पसमं विदुः ॥५६ गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयाः । गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥६० परिवित्तितानुजेऽनूढे परिवेदनमेव च । तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥६१ कन्याया दृपणं चैव वाधुष्यं व्रतलोपनम् । तडागारामदाराणामपत्यस्य च विक्रयः ॥६२ ब्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च । भृताच्चाध्ययनादानमपण्यानां च विक्रयः ॥६३ सर्वाकरेष्वधोकारो महायन्त्रप्रवर्तनम् ।। हिंसौषधीनां त्याजीवोऽभिचारो मूलकर्म च ॥६४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy