SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ नाम। ऽध्यायः स्तेयफलवर्णनम् । तेषां सततमज्ञानां वृषलाम्न्युपसेविनाम् । पदा मस्तकमाक्रम्य दाता दुर्गाणि सत्तरेत् ।।४३ अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रस (जन्नि) क्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥४४ अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुति निदर्शनात् ।।४५ अकामतः कृतं पापं वेदाभ्यासेन शुद्धपति । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥४६ प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा । नं संसर्ग व्रजेत्सद्भिः प्रायश्चित्ते कृते द्विजः ।।४७ इह दुश्चरितैः केचित्केचित्यूर्वकृत (कृतः) स्तथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥४८ सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । ब्रह्महा क्षयरोगित्वं दौश्वयं गुरुतल्पगः ॥४६ पिशुनः पौतिनासिक्य सूचकः पूतिवक्तृताम् । धान्यचौरोऽङ्गहीनत्वमातिरक्यं तु मिश्रकः ।।५० अन्नहर्तामयावित्वं मौक्यं वागपहारकः । वस्त्रापहारकः श्वव्यं पङ्गुतामश्वहारकः ।।५१ दोपहर्ता भवेदान्धः काणो निर्वापको भवेत् । हिंसया व्याधिभूयस्त्वं स्फीतोऽन्यस्यभिमर्षकः ।।५२ एवं कर्मविशेषेण जायन्ते सद्विगहिताः । जडमूकान्धबधिरा विकृताकृतयस्तथा ॥५३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy