________________
याचः] देवाद्विधन हरतीतिफलवर्णनम् । २१५
न तस्मिन्धारयेद्दण्डं धार्मिकः पृथिवीपतिः। क्षत्रियस्य हि बालिस्याबाबगः सीदति क्षुधा ।।२१ तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः। श्रुतशीले च विज्ञाय वृत्ति धा प्रकल्पयेत् ।।२२ कल्पयित्वाऽस्य वृत्तिं च रक्षेदेनं समततः । राजा हि धर्मषड्भागं तस्मात्प्राप्नोति रक्षितात् ।।२३ न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कहिचित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥२४ यज्ञार्थमर्थं भिक्षित्वा यो न सर्व प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ॥२५ देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः। स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥२६ इष्टिं वैश्वानरी नित्यं निर्वपेदब्दपर्यये। क्लमानां पशुसोमानां निष्कृत्यर्थमसम्भवे ॥२७ आपत्कल्पेन यो धर्म कुरुतेऽनापदि द्विजः। स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥२८ विश्वैश्च देवैः साध्यैश्च ब्राह्मणेच महर्षिभिः । आपत्सु मरणाहीतैर्विवेः प्रतिनिधिः कृतः ॥२६ प्रभुः प्रथमकल्पस्व योऽनुकल्पेन वर्तते। न साम्परायिकं तस्य दुर्मतेर्षियते फलम् ॥३० न ब्राह्मणो वेदयेत किश्चिद्राजनि धर्मवित् । स्ववीर्येणैव वाञ्छिष्याम्मानवानपकारिणः ॥३१