SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २१४ मनुस्मृतिः। भृत्यानामुपरोधेन यत्करोत्योर्ध्वदेहिकम् । सद्भक्त्यसुखोदकं जीवतश्च मृतस्य च ॥१० यज्ञश्चेत्प्रतिरुद्धः स्वाहेकेनाङ्गेन यज्वनः। ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥११ यो वैश्यः स्याबहुपशुहीनक्रतुरसोमपः । कुटुम्बात्तस्य तद्रव्यमाहरेद्यज्ञसिद्धये ।।१२ आहरेत्त्रीणि वा द्वे वा काम शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ॥१३ योऽनाहिताग्निः शतगुरयज्वा (यज्ञ:) च सहस्रगुः । तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ।।१४ आदाननित्याचादातुराहरेदप्रयच्छतः । तथा यशोज्य प्रयते धर्मश्चैव प्रवर्षते ॥१५ तथैव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्त विधानेन हर्तव्यं हीनकर्मणः ।।१६ खलारक्षेत्रादगाराद्वा यतो वाप्युपलभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ।।१७ ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन । दस्युनिष्क्रिययोस्तु स्वमजीवन्हर्तुमर्हति ।।१८ योऽसाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति । स कृत्वा प्लवमात्मानं संतारायति तावुभौ ॥१६ यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः । अयम्वनां तु यद्वितमासुरव सदुच्यते २०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy