________________
२१२
मनुस्मृतिः । प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथाहतः। ... शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ।।१२४ उच्छिष्टमन्न दातव्यं जीर्णानि वसनानि च ।। पुलाकाश्चैव धान्यानां जोर्णाश्चैव परिच्छदाः ॥१२५ न शूद्रे पातकं किञ्चिन्न च संस्कारमहति । ... नास्याधिकारो धर्मोऽस्ति न धर्मात्प्रतिषेधनम् ॥१२६ धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्त (धर्म) मनुष्ठिताः । मन्त्रक (ज) ज्यं न दुष्यन्ति प्रशंसा प्रा नुवन्ति च ॥१२७ यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः । तथा तथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः ।।१२८ शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥१२६ एते चतुर्णा वर्णानासापद्धर्माः प्रकीर्तिताः । यान्सम्यगनुतिष्ठन्तो ब्रजन्ति परमां गतिम् ।।१३० एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः। अतः परं प्रवक्ष्यामि प्रायश्चित्तविधि शुभम् ।।१३१ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां -
. दशमोऽध्यायः ।।१०।।
.
-०*०