________________
[समो
मनुस्मृतिः। सर्ववः प्रतिगृहीयाबामणत्वनयं गतः।। पवित्रं दुष्यतीत्येवदर्मतो नोपपद्यते ॥१०२ नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिमहात् । बोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥१०३ जीवितात्ययमापन्नो योऽन्नमति यत (तत) स्ततः । आकाशमिव पङ्कन न स पापेन लिप्यते ॥१०४ अजीगतः सुतं हन्तुमुपासबुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ।।१०५ श्वमांसमिच्छन्नार्तोऽत्तुं धर्माधर्मविचक्षणः । प्राणानां परिरक्षार्थ वामदेवो न लिप्तवान् ।।१०६ भरद्वाजः क्षुधातस्तु सपुत्रो विजने वने। बहीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ॥१०७ क्षुधातश्चात्तुमभ्यागाद्विश्वामित्रः श्वजाघनीम् । चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥१०८ प्रतिग्रहाद्याजनाद्वा तयैवाध्यापनादपि । प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥१०६ याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् । प्रतिग्रहस्तु क्रियते शूद्राद यन्त्यजन्मनः ।।११० जपहोमरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥१११ शिलोब्छमायादीत विप्रोऽजीवन्यतस्ततः । प्रतिमहाच्छिलः श्रेयांततोऽप्युन्छः प्रशस्यते ॥११२