________________
२०८
मनुस्मृतिः। [दशमो वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । वार्ताकमैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥८० अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा। जीवेक्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ॥८१ उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । . कृषिगोरक्षमास्थाय जीवेद्वेश्यस्य जीविकाम् ।।८२ वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा। हिंसाप्रायां पराधीनां कृषि यत्नेन वर्जयेत् ॥८३ कृषि साध्विति मन्यन्ते सा वृत्तिः सद्विगहिंता । भूमि भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥८४ इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणम् । विट्पण्यमुद्र तोद्धारं विक्रयं वित्तवर्धनम् ।।८५ सर्वान् रसानपोहेत कृतान्नं च तिलैः सह । अश्मनो लवणं चैव पशवो ये च मानुषाः ।।८६ सर्व च तान्तवं रक्तं शाणौमाक्किानि च । अपि चेत्स्युररक्तानि फलमूले तथौषधीः ।।८७ अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः। क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ।।८८ आरण्यांश्च पशून्सर्वान्दष्ट्रिणश्च वयांसि च । मद्यं नीली च लाक्षां च सर्वांश्चैकशफांस्तथा ।।८९ काममुत्पाद्य कृष्यां तु स्वयमेव कृषीबलः। विक्रीणीत तिलान् शुद्धान्धर्मार्थमचिरस्थितान् ॥६०