SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २०४ मनुस्मृतिः। - [दशमो कारावरो निषादात्तु चर्मकारं प्रसूयते। वैदेहिकादन्ध्रमेदौ वहिर्घामप्रतियौ ॥३६ चाण्डालापाण्डुसोपाकस्त्वक्सारव्यवहारवान् । आहिण्डिको निषादेन वैदेह्यामेव जायते ॥३७ चाण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । पुल्कस्यां जायते पापः सदा सज्जनगर्हितः ॥३८ निषादत्री तु चण्डालात्पुत्रमन्त्यावसायिनम् । श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥३६ सङ्करे जातयस्स्वेताः पितृमातृप्रदर्शिताः । प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥४० सजातिजानन्तरजाः षट्सुता द्विजधर्मिणः । शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः ॥४१ तपोवीजप्रभावस्तु ते गच्छन्ति युगे युगे। उत्कर्ष चापकषं च मनुव्येष्विह जन्मतः॥४२ शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणा (तिक्रमेण) दर्शनेन च ।।४३ पुण्ड्रकाश्चोड़द्रविडाः काम्बोजा यवनाः शकाः । पारदापलवाश्चीनाः किराता दरदाः खशाः ॥४४ मुखबाहूरुपजानां या लोके जातयो वहिः । म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः ।।४५ ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः । ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः ।।४६ ...
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy