SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] वर्णभेदान्तरेण-त्वनेकवर्ण-वर्णनम्। २०१ वैशेष्यात्प्रकृतिश्रेष्ठ्यान्नियमस्य च धारणात्। . संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥३ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पंचमः ॥४ सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते ॥५ स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान् । सदृशानेव तानाहुर्मातृदोषविगहितान् ॥६ अनन्तरासु जातानां विधिरेष सनातनः । द्वयकान्तरासु जातानां धयं विद्यादिमं विधिम् ॥७ ब्राह्मणाद्वैश्यकन्यायामंबष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते ॥८ क्षत्रियाच्छूद्रकन्यायां कराचारविहारवान् । क्षत्रशूद्रवपुर्ज तु स्यो नाम प्रजायते ॥६ विप्रत्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः । वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः ॥१० क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदेही राजविप्राङ्गनासुतौ ॥११ शद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः ॥१२ एकान्तरे त्वानुलोम्यादंबष्ठोग्रौ यथास्मृतौ । क्षत्तृवैदेहको तद्वत्प्रातिलोम्येऽपि जन्मनि ॥१३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy