________________
२००
दशमो
मनुस्मृतिः। धर्मेण च द्रव्यवृद्धावातिष्ठेद्यनमुत्तमम् । दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः ॥३३३ विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् । शुश्रूषैव तु शूद्रस्य धर्मो नैःश्रेयसः परम् ।।३३४ शुचिरुत्कृष्टशुश्रूषुमृदुवागनहंकृतः।। ब्राह्मणापाश्रयो नित्यमुत्कृष्टां जातिमश्नुते ॥३३५ एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः । आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत ॥३३६ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां
नवमोऽयायः ॥६॥
दशमोऽध्यायः। अथादौ-वर्णानां भेदान्तरविवेकवर्णनम् । अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः। प्रब्रूयाब्राह्मणस्त्वेषां नेतराविति निश्चयः ॥१ सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान्यथाविधि । प्रबेयादितरेभ्यश्च स्वयं चैव तथा भवेत् ।।२