________________
ऽध्यायः] वर्णानां कर्मविधिवर्णनम् ।
नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्धते । ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते ॥३२२ दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् । पुत्र राज्यं समा (साद्य) सृज्य कुर्वीत प्रायणं रणे ॥३२३ एवं चरन्सदा युक्तो राजधर्मेषु पार्थिवः । हितेषु चैव लोकस्य सर्वान्भृत्यान्नियोजयेत् ॥३२४ एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः । इमं कर्मविधिं विद्यात्क्रमशो वैश्यशूद्रयोः ॥३२५ वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । वार्तायां नित्ययुक्तः स्यात्पशूनां चैव रक्षणे ॥३२६ प्रजापतिहि वैश्याय सृष्ट्वा परिददे पशून् । ब्राह्मगाय च राज्ञे च सर्वाः परिददे प्रजाः ॥३२७ न च वैश्यस्य कामः स्यान्न रक्षेयं पशुनिति । वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ॥३२८ मणिमुकाप्रबालानां लोहानां तांतवस्य च । गन्धानां च रसानां च विद्यादबलाबलम् ॥३२६ बीजानामुप्रिविञ्च स्यात्क्षेत्रदोषगुणस्य च । मानयोगं च जानीयात्तुलायोगांश्च सर्वशः ॥३३० सारासारं च भाण्डानां देशानां च गुणागुणान् । लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥३३१ भृत्यानां च भृति विद्याद्भाषाश्च विविधा नृणाम् । द्रव्याणां मानयोगांश्च क्रयविक्रयमेव च ॥३३२