________________
१६८ , मनुस्मृतिः।
[नवमो यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि विभ्रतः पार्थिवं ब्रतम् ॥३११ एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः। स्तेनानाजा निगृह्णीयास्वराष्ट्र परएव च ॥३१२ परामण्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् । ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ।।३१३ यैः कृतः सर्वभक्षोऽग्निरपेयश्च महोदधिः । क्षयी चाप्यायितः सोमः को न नश्येप्रकोप्यतान् ।।३१४ लोकानन्यान्सृजेयुर्ये लोकपालांश्च कोपिताः। देवान्कुर्युरदेवांश्च कः क्षिण्वंस्तान्समृध्नुयात् ॥३१५ यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा । ब्रह्म चैव धनं येषां को हिंस्यात्ताजिजीविषुः ॥३१६ अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । प्रणीतश्चाप्रणीतश्च यथामिदैवतं महत् ॥३१७ श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ॥३१८ एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु । सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥३१६ क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान्प्रति सर्वशः। ब्रह्म व सन्नियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ।।३२० अद्भयोऽग्निब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥३२१