SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] राज्ञः धर्मपालनवर्णनम् । आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्यारभमाणं हि पुरुष श्रीनिषेवते ॥३०० कृतं त्रेतायुगं चैव द्वापरं कलिरेव च । राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥३०१ कलिः प्रसुप्रो भवति स जाप्रवापरं युगम् । कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥३०२ इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च । चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥३०३ वार्षिकांश्चतुरो मासान्यथेन्द्रोऽभिप्रवर्षति । तथाभिवर्षेवं राष्ट्र कामैरिन्द्रव्रतं चरन् ॥३०४ अष्टौ मासाम्यथादित्यस्तोयं हरति रश्मिभिः । तथा हरेत्करं राष्ट्रानित्यमत्रतं हि तत् ॥३०५ प्रविश्य सर्वभूतानि यथा चरति मारुतः। तथा चारैः प्रवेष्टव्यं ब्रतमेतद्धि मारुतम् ॥३०६ यथा यमः प्रियद्वेष्यो प्राप्ते काले नियच्छति । तथा राक्षा नियन्तच्या प्रजास्तद्धि यमब्रतम् ॥३०७ वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते।। तथा पापानिगृह्णीयाद्रूतमेतद्धि वाहणम् ॥३०८ परिपूर्ण यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन्स चान्द्रव्रतिको नृपः ।।३०६ प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु । दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥३१०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy