SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अनकद ऽध्यायः] अनेकदण्डवर्णनम्। १६१ अमात्याः प्राड्विवाको वा यत्कुयुः कार्यमन्यथा । तत्वयं नृपतिः कुर्यात्तंसहस्रञ्च दण्डयेत् ।।२३४ ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः । एते सर्वे पृथाज्ञेया महापातकिनो नराः ॥२३५ चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धयं प्रकल्पयेत् ।।२३६ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः पुमान् ॥२३७ असंभोज्या ह्यसंयाज्या असंपाठ्या(विगहिता:)विवाहिनः । चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥२३८ ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः । निर्दया निर्नमस्कारास्तन्मनोरनुशासनम् ॥२३६ प्रायश्चित्तं तु कुर्वाणाः सर्वे (पूर्व) वर्णा यथोदितम् । नाङ्कथा राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ।।२४० आगस्सु ब्राह्मणस्यैव कार्यो मध्यमसाहसः । बिवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः ॥२४१ इतरे कृतवन्तस्तु पापान्येतान्यकामतः । सर्वश्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥२४२ नाददीत नृपः साधुमहापातकिनो धनम् । आददानस्तु तल्लोभात्तेन दोषेण लिप्यते ॥२४३ अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ।।२४४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy