SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ १८६ ऽध्यायः] ऐश्वर्यादिभोक्तुभागवर्णनम् सोदर्या विभजेरंस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ।।२१२ यो ज्येष्ठो विनिकुर्वीत लोभाद्भातृन्यवीयसः । सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥२१३ सर्व एव विकर्मस्था नाहन्ति भ्रातरो धनम् । न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ।।२१४ भ्रातृणामविभक्तानां यद्युत्थानं भवेत्सह । न पुत्रभागं विषमं पिता दद्यात्कथंचन ।।२१५ ऊर्ध्व विभागाजातस्तु पित्र्यमेव हरेद्धनम् । संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ।।२१६ अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥२१७ मृणे धने च सर्वस्मिन्प्रविभक्ते यथाविधि । पश्चाद् दृश्येत यत्किञ्चित्तत्सवं समतां नयेत् ।।२१८ वस्त्रं पत्रमलकारं कृतान्नमुदकं त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥२१६ अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः । क्रमशः क्षेत्रजादीनां घतधर्म निबोधत ।।२२० द्य तं समाह्वयं चैव राजा राष्ट्रानिवारयेत् । राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ।।२२१ प्रकाशमेतत्तास्कयं यद्दे वनसमाह्वयो। तयोनित्यं प्रतीघाते नृपतिर्यत्नवान्भवेत् ।।२२२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy