________________
१८८
- मनुस्मृतिः। [नवमो अनंशौ क्लीवपतितो जात्यन्धबधिरौ तथा ।। उन्मत्तजडमूकाश्च ये च केचिनिरिन्द्रियाः ।।२०१ सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा । प्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ।।२०२ यद्यर्थिता तु दारैः स्याल्लीवादीनां कथंचन | तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ।।२०३ यत्किञ्चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ।।२०४ अविद्यानां तु सर्वेषामीहातश्चद्धनं भवेत् । समस्तत्र विभागः स्यादपिय इति धारणा ॥२०५ विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत् । मैत्रमौद्वाहिकं चैव माधुपर्किकमेव च ॥२०६ भ्रातॄणां यस्तु नेहेत धनं शक्तः स्त्रकर्मणा । स निर्भाज्यः स्वकादंशात्किञ्चिहत्तोपजीवनम् ।।२०७ अनुपघ्नन्पितद्रव्यं श्रमेण यदुपा (जितम् ) जयेत् । स्वयमोहितलब्धं तन्नाकामो दातुमर्हति ॥२०८ पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । न तत्सुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ।।२०६ विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि । समस्तत्र विभागः स्याज्यैष्ठ्यं तत्र न विद्यते ॥२१० येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । नियेतान्यतरो वापि तस्य भागो न लुप्यते ।।२११