SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १८६ मनुस्मृतिः । [ नवमो दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् । सोऽनुज्ञातो हरेदंशमिति धर्मे व्यवस्थितः ॥ १७६ क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ||१८० य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः । यस्य ते वीजतो जातास्तस्य ते नेतरस्य तु ॥ १८९ भ्रातृणामेकजातानामेकश्चेत्पुत्रवान्भवेत् । सर्वास्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥१८२ सर्वासामेकपत्नीनामेका चेत्पुत्रिगी भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः || १८३ श्रेयसः श्रेयसोऽलाभ पापीयान्रिक्थमर्हति । बहवश्चतु सहशाः सर्वे रिक्थस्य भागिनः ||१८४ न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च ।। १८५ त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते । चतुर्थः संप्रदातेषां पञ्चमो नोपपद्यते ।।१८६ अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् । अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा ॥ १८७ सर्वेषामप्यभावे तु ब्राह्मगा रिक्थभागिनः । विद्याः शुचयो दान्तास्तथा । धर्मो न हीयते ॥१८८ अहा ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः । इतरेषां तु वर्णानां सर्वाभाव हरेन्नृपः ॥ १८६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy