SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः। [ नवमो शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते । तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ।।१५७ पुत्रान्द्वादश यानाह नृणां स्वायम्भुवो मनुः । तेषां षड्बधुदायादाः षडदायादबान्धवाः ।।१५८ औरसः क्षेत्र जश्चेव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥१५६ कानोनश्च सहोढश्च क्रोतः पौनर्भवस्तथा । स्वयं इत्तश्च शौद्रश्च षडदायादबान्धवाः ।।१६० यादृशं फलमाप्नोति कुप्लवैः सन्तरं जलम् । तादृशं फलमाप्नोति कुपुरैः संतरंस्तमः ॥१६१ यद्य करिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ । यस्य यसैतृकं रिक्यं स तद्गृहीत नेतरः ।।१६२ एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्याथं प्रदद्यात्तु प्रजीवनम् ।।१६३ षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन्दायं पित्र्यं पंचममेव वा ।।१६४ औरसक्षेत्र जौ पुत्रौ पितृरिस्थस्य भागिनौ । दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ।।१६५ स्पेक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात्पुर्व प्राथमकल्पिकम् ।।१६६ यस्तल्पजः प्रमोतस्य क्लीवस्य व्यावितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥१६७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy