SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १८० मनुस्मृतिः। [ नक्मो ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् । येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम् ॥११३ सर्वेषां धनजातानामाददीताग्रथमप्रजः । यच सातिशयं किंचिद्दशतश्चाप्नुयाद्वरम् ॥११४ उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु । यत्किञ्चिदेव देयं तु ज्यायसे मानवर्धनम् ।।११५ एवं समुद्धतोद्धारे समानंशान्प्रकः पयेत् । उद्धारेऽनुद्ध ते त्वेषामियं स्यादंशकल्पना ॥११६ एकाधिकं हरेज्ज्येष्ष्ठः पुत्रोऽध्यधं ततोऽनुजः । अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥११७ स्वाभ्यः स्वाभ्यस्तु कन्याभ्यः प्रदद्यु_तरः पृथक् । स्वात्स्वादंशाचतुर्भागं पतिताः स्युरदित्सवः ।।११८ अजाविकं सैकशर्फ न जातु विषमं भजेत् । अजाषिकं तु विषमं ज्येष्ठत्यैव विधीयते ॥११६ यवीयाज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि । समतत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥१२० उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते। पिता प्रधानं प्रजने तस्माद्धर्मेण तं भजेत् ।।१२१ पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः । कथं तत्र विभागः स्यादिति चेत्संशयो भवेत् ॥१२२ एकं वृषभमुद्धारं संहरेत स पूर्वजः। ततोऽपरेऽ ज्येष्ठवृषास्तदूनानां स्वमातृतः ॥१२३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy