________________
मनुस्मृतिः।
[अष्ठमो
सहस्र ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्राया क्षत्रियविशोः साहस्रो वै भदेहमः ।।३८३ क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः । मूत्रेण मौड्यमृच्छेत्तु क्षत्रियो दण्डमेव वा ॥३८४ अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् । शतानि पञ्च दण्ड्यः स्यात्सहस्र त्वन्त्यजस्त्रियम् ॥३८५ यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥३८६ एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके । साम्राज्यकृत्सजात्येषु लोके चैव यशस्करः ॥३८७ ऋत्विजं यस्त्यजेद्याज्यो याज्यं चत्विक्त्यजेद्यदि । शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ।।३८८ न माता न पिता न स्त्री न पुत्रस्त्यागमहति । त्यजन्नपतितानेवाज्ञा दप्ड्यः शतानि षट् ॥३८६ आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । न विव्यान्नृपो धर्म चिकीर्षन्हितमात्मनः ॥३६० यथाहमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः । सान्त्वेन प्रशमय्यादौ स्वधर्म प्रतिपादयेत् ॥३६१ प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे। अविभाजयन्विप्रो दण्डमर्हति माषकम् ॥३६२ श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । तदन्न द्विगुणं दाप्यो हिरण्यं चैव माषकम् ॥३६३