SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] राजधर्मदण्डविधानवर्णनम् । पुमांसं दाहयेत्पापं शयने तप्त आयसे । अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ।।३७२ संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः। ब्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥३७३ शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अगुप्तमङ्गसर्वस्वी गुप्तं सर्वेण हीयते ॥३७४ वैश्यः सर्वस्यदण्डः स्यात्संवत्सरनिरोधतः।। सहस्र क्षत्रियोदण्ड्यो मौण्ड्यं मूत्रेण चाहति ॥३७५ ब्राह्मणी यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ। वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥३७६ उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥३७७ सहस्रं ब्राह्मगो दण्ड्यो गुप्तां विप्रां बलाद्मजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥३७८ मौण्ड्य प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥३७६ न जातु ब्राह्मगं हन्यात्सर्वपापेष्वपि स्थितम् । राष्ट्रादेनं बहिःकुर्यात्समगधनमक्षतम् ॥३८० न ब्राह्मणबधाद्भूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥३८१ वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो ब्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमहतः ।।३८२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy