SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १६४ मनुस्मृतिः। [अष्टमो न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । निषिद्धो भाषमाणस्तु सुवर्ण दण्डमर्हति ॥३६१ नैष चारणदारेषु विधिर्नात्मोपजीविषु । सज्जयन्ति हि ते नारीनिंगूढाश्चारयन्ति च ॥३६२ किंचिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन् । प्रेष्यासु चैकभक्तासु रहः प्रत्रजितासु च ॥३६३ योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयानरः ॥३६४ कन्यां भजन्तीमुत्कृष्टं न किंचिदपि दापयेत् । जघन्यं सेवमानां तु संयतां वासयेद्गृहे ॥३६५ उत्तमां सेवमानस्तु जघन्यो वधमहति । शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि ॥३६६ अभिषह्य तु यः कन्यां कुर्यादर्पण मानवः । तस्याशु का अङ्गुल्यो दण्डं चार्हति षट्शतम् ॥३६७ सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥३६८ कन्यैव कन्यां या कुर्यात्तस्याः स्याद्विशतो दमः । शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश ॥३६६ या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमहति । अङ्गुल्योरेव वा छेदं खरेणोद्वहनंतथा ।।३७० भर्तारं लमयेद्या तु स्त्री ज्ञातिगुणदर्पिता । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥३७१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy