________________
पुज्यायः] राजधर्मदण्डविधानवर्णनम् । १६३
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥३५० नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥३५१ परदाराभिमशेषु प्रवृत्तान्नृन्महीपतिः। उद्वेजनकरैर्दण्डैश्वियित्वा प्रवासयेत् ॥३५२ तत्समुत्थो हि लोकस्य जायते वर्णसङ्करः । येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ॥३५३ परस्य पत्न्या पुरुषः संभाषां योजयन्रहः । पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ॥३५४ यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । न दोषं प्राप्नुयाकिञ्चिन्न हि तस्य व्यतिक्रमः ॥३५५ . परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा। नदीनां वाऽपि संभेदे स संग्रहणमाप्नुयात् ॥३५६ उपकारक्रियाकेलिः स्पर्शी भूषणवाससाम् । सह खट्वासनं चैव सर्व संग्रहणं स्मृतम् ।।३५७ स्त्रियं स्पृरोददेशे यः स्पृटोवा मर्षयेत्तया । परस्परस्यानुमते सर्व संग्रहणं स्मृतम् ।।३५८ अब्राह्मणः संगहणे प्राणान्तं दण्डमहति । चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ।।३५६ भिक्षुका वन्दिनश्चैव दीक्षिताः कारवस्तथा।। संभाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥३६०