________________
१६२
मनुस्मृतिः।
[अष्टमो वानस्पत्यं मूलफलं दावग्न्यथं तथैव च। तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरखवीत् ॥३३६ योऽदत्तादायिनो हस्ताल्लिासेत ब्राह्मणो धनम्। याजनाध्यापनेनापि यथा स्ते नस्तथैव सः ॥३४० द्विजोऽध्वगः क्षीणवृत्ति-विक्षु द्वे च मूलके । आइदानः परक्षेत्रान्न दण्डं दातुमर्हति ॥३४१ असंदितानां संदाता संदितानां च मोक्षकः । दासाश्वरथहर्ता च प्राप्तः स्याचोर किल्विषम् ॥३४२ अनेन विविना राजा कुर्वाणः स्तेननिग्रहम् । यशोऽस्मिन्प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम् ॥३४३ ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् । नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥३४४ वाग्दुष्टात्तस्कराचैव दण्डेनैव च हिंसतः। साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ।।३४५ साहसे वर्तमानं तु यो मर्षयति पार्थिवः । स विनाशं व्रजत्याशु विद्वेषंचाधिगच्छति ॥३४६ न मित्रकारणाद्राजा विपुलाद्वा धनागमात् । समुत्सृजेत्साहसिकान्सर्वभूतभयावहान् ॥३४७ शस्त्रं द्विजातिभिर्ग्राह्य धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥३४८ आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे । स्त्रीविप्राभ्युपपत्तौ च धर्मेण घ्नन्न दुष्यति ॥३४६