SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] राजधर्मदण्डविधानवर्णनम्। १६१ मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च। मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् ॥३२८ अन्येषां चैवमादीनामद्यानामोदनस्य च। पक्कान्नानां च सर्वेषां तन्मूल्याद्विगुणो दमः ॥३२६ पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च । अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः ॥३३० परिपूतेषु धान्येषु शाकमूलफलेषु च। - निरन्वये शतं दण्डः सान्वयेऽर्द्धशतं दमः ॥३३१ स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम्। निरन्वयं भवेस्तेयं हृत्त्वापव्ययते च यत् ॥३३२ यस्त्वेतान्युपक्लप्तानि द्रव्याणि स्तेनयेन्नरः । तमाद्य (तं शत) दण्डयेद्राजा यश्चाग्निं चोरयेद् हात्॥३३३ येन येन यथाङ्गन स्तेनो नृषु विचेष्टते। तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥३३४ पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः। नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥३३५ कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः । तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा ॥३३६ अष्टापाद्यं तु शूद्रस्य स्तेये भवाति किल्विषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च ॥३३७ ब्राह्मणस्य चतुःषष्टिः पूर्ण वाऽपि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तदोषगुणविद्धि सः ॥३३८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy