________________
. मनुस्मृतिः।
[अष्टमो? अनादे भ्रूणहा मार्टि पत्यौ भार्यापचारिणी। . गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्विषम् ॥३१७ राजभिःकृत (धृत) दण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥३१८ यस्तु रज्जु घटं कूपाद्धरेद्भिद्याच्च यः प्रपाम् । . स दण्डं प्राप्नुयान्माषं तच्च तस्मिन्समाहरेत् ॥३१६ धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् ॥३२० तथा धरिममेयानां शतादभ्यधिके वधः । सुवर्णरजतादीनामुत्तमानां च वाससाम् ३२१ : पञ्चाशतरत्वभ्यधिके हस्तच्छेदनमिष्यते। शेषे कादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥३२२ पुरुषाणां कुलीनानां नारीणां च विशेषतः। मुख्यानां चैब रत्नानां हरणे बधमर्हति ॥३२३ महापशूनां हरणे शास्त्राणामौषधस्य च । कालमासाद्य कार्य च दण्डं राजा प्रकल्पयेत् ॥३२४ गोषु ब्राह्मणसंस्थासु छरिका (खरिका) याश्च भेदने । पशूनां हरणे चैव सद्यः कार्योऽपादिकः ॥३२५ सूत्रकार्पासकियानां गोमयस्य गुडस्य च । दध्नः क्षीरस्य तकस्य पानीय य तृणस्य च ॥३२६ वेणुवैदलभाण्डानां लवणानां तथैव च । मृन्मयानां च हरणे मृदो भस्मन एव च ॥३२७