________________
बायः] राजधर्मविधाने चौरदण्डवर्णनम् १५६
रक्षन्धर्मेण भूतानि राजा बध्यांश्च घातयन् । यजतेऽहरहर्यज्ञः सहस्रशतदक्षिणैः ॥३०६ योऽरक्षन्बलिमादत्ते करं शुल्कं च पार्थिवः । प्रतिभागं च दण्डं च स सद्यो नरकं ब्रजेत् ।। ३०७ अरक्षितारमतारं बलिषड्भागहारिणम् । तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥३०८ अनवेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् । अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ।।३०६ . अधार्मिकं त्रिभिायैनिगृहीयात्प्रयत्नतः। निरोधनेन बन्धेन विविधन बघेन च ॥३१० निग्रहेण हि पापानां साधूनां संग्रहेण च । द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥३११ क्षन्तव्यं प्रभुगा नित्यं क्षिपतां कार्यिणां नृणाम् । बालवृदातुराणां च कुर्वता हितमात्मनः ॥३१२ यः क्षिप्तोमर्षय यातस्तेन स्वर्गे महोयते । यस्त्वैश्वन क्षमते नरकं तेन गच्छति ॥३१३ राजा स्तेनेन गन्तव्यो मुक्तकेशेन (धीमता) धावता । आचक्षाणेन तत्स्तेयमेवकर्मास्मि शावि माम् ॥३१४ स्कन्धेनादाय मुशलं लगुडं वापि खादिरम् । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥३१५ शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्विषम् ॥३१६