________________
१५८
मनुस्मृतिः।
[अष्ठमो स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा। प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ।।२६५ मनुष्यमारणे क्षिप्रं चौरवत्किल्विषं भवेत् । प्राणभृत्सु महत्स्वधं गोगजोष्ट्रहयादिषु ॥२६६ क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेदण्डः शुभेषु मृगपक्षिषु ॥ २६७ गर्दभाजाविकानां तु दण्डः स्यात्पाञ्चमाषिकः । माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने ॥२६८ भार्या पुत्रश्च दासश्च शिष्यो (प्रेप्यो) भ्राता च सोदरः । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥२६६ पृष्ठतस्तु शरीरस्य नोत्तमाङ्ग कथंचन । अतोऽन्यथा तु प्रहरन्प्राप्तः स्याश्चौर किल्विषम् ।।३०० एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः । स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ।। ३०१ परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः । स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥ ३०२ अभयस्य हि यो दाता स पूज्यः सततं नृपः। सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥३०३ सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः। अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥३०४ यदधीते यद्यजते. यददाति यदर्चति । तस्य षड्भागभाप्राजा सम्यग्भवति रक्षणात्॥३०५