________________
ध्यायः] राजधर्मदण्डविधानवर्णनम् ।
त्वम्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः। .. मांसभेत्ता तु पण्णिष्कान्प्रवास्यस्त्वस्थिभेदक: २८४ वनस्पतीनां सर्वेषामुपभोगो यथा यथा । तथा तथा दमः कार्यो हिसायामिति धारणा ॥२८५ मनुष्याणां पशूनां च दुःखाय प्रहृते सति । यथा यथा महर खं दण्डं कुर्यात्तथा तथा ॥२८६ अङ्गावपीडनायां च प्राणशोणितयोस्तथा । . समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ।।२८७... द्रव्याणि हिंस्यायो यस्य ज्ञानतोऽज्ञानतोऽपि वा। स तस्योत्पादयेत्तुष्टिं राझे दद्याश्च तत्समम् ।।२८८ चर्मचार्मिकभाण्डषु काष्ठलोष्ठमयेषु च। मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥२८१ यानस्य चैव यातुश्च यानस्वामिन एव च। दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥२६० छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखांगते। अक्षभङ्ग च यानस्य चक्रभङ्ग तथैव च ॥२६१ छेदने चैव यन्त्राणां योक्तरश्म्योस्तथैव च । । आक्रन्दे चाप्यौहीति न दण्डं मनुरब्रवीत् ॥२६२ यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु। तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ।।२६३ प्राजकश्चद्भवेदाप्तः प्राजको दण्डमर्हति । युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ २६४