________________
१५६
. मनुस्मृतिः।
[अष्टम च्युतं (श्रुतं ) देशं च जातिं च कर्म शारीरमेव च । वितथेन ब्रुवन्ददाप्यः स्याद्विशतं दमम् ।।२७३ काणं वाऽऽयथ वा खञ्जमन्यं वाऽपि तथाविधम् । तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् ।।२७४ मातरं पितरं जायां भ्रातरं तनयं गुरुम् । आक्षारयञ्छतं दाप्यः पन्थानं चादद्गुरोः ।।२७५ ब्राह्म गक्षस्त्रियाभ्यां तु दण्डः कार्यों विजानता। ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥२७६ विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः। छेदवज प्रणयनं दण्डस्येति विनिश्चयः ।।२७७ एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । अत ऊवं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ।।२७८ येन केनचिदङ्गन हिंस्याचेच्छष्ठमन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ।।२७६ पाणिमुद्यन्य दण्डं वा पाणिच्छेदनमर्हति । पादेन प्रहरन्कोपात्पादच्छेदनमईति ॥२८० सहासनमभिप्रेप्सुरुकृष्टस्यापकृष्टजः । कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ।।२८१ अवनिष्ठीबतो दर्पावावोष्ठौ छेदयेन्नृपः। .. अवमूत्रयतो मेढ़मवशर्धयतो गुदम् ।।२८२ केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायां च प्रीवायां वृषणेषु च ।।२८३