SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] राजदण्डविधाने सीमादण्डवर्णनम् । १५५ क्षेत्रकूपतडागानामारामस्य गृहस्य च । सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ।।२६२ सामन्ताश्चेन्मृषा ब्रूयुः सेतो विवदतां नृणाम् । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ।।२६३ गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्विशतो दमः ॥२६४ सीमायामविषयायां स्वयं राजैव धर्मवित् । प्रदिशेद्भूमिमेतेषामुपकारादिति स्थितिः ।।२६५ एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये । अत ऊधं प्रवक्ष्यामि वाक्पारुष्य विनिर्णयम् ।।२६६ शतं ब्राह्मणमाक्रश्य क्षत्रियो दण्डमर्हति । वैश्योऽयर्धशतं द्वे वा शूद्रस्तु बधमर्हति ॥२६७ पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये स्यादर्द्ध पञ्चाशच्छद्रे द्वादशको दमः ॥२६८ समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥२६६ एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥२७० नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः । निःक्षेप्योऽयोमयः शकुर्बलन्नास्ये दशाङ्गुलः ॥२७१ धर्मोपदेशं दर्पण विप्राणामस्य कुर्वतः । तमासेचयेत्तैलं वक्त श्रोत्रे च पार्थिवः ।।२७२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy