SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ मायः] राजधर्मदण्डविधाने वेतनदण्डवर्णनम् । १५३ पथि क्षेत्रे परिवृते प्रामान्तीयेऽथ वा पुनः । सपालः शतदण्डा) विपालान्वारयत्पशून् ।।२४० क्षेत्रेष्वन्योषु तु पशुः सपादं पणमर्हति ।। सर्वत्र तु सदो देयः क्षेत्रिकस्यति धारणा ।।२४१ अनिर्दशाहां गां सूतां वृषान्देवपशूस्तया । सपालान्वा विपालान्वा न दण्ड्यान्मनुरब्रवीत् ।।२४२ क्षेत्रियस्यात्यो दण्डो भागादशगुणो भवेत् । ततोऽदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु ॥२४३ एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः । स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ।।२४४ सीमां प्रति समुत्पन्न विवादे ग्रामयोद्वयोः । ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु ॥२४५ सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलोन्शालतालांश्च क्षीरिणश्चैव पादपान् ।।२४६ गुल्मान्वेणूंश्च विविधाञ्छमीवल्लीस्थलानि च । शरान्कुञ्जकगुल्मांश्च तथा सीमा न नश्यति ॥२४७ तडागान्युदपानानि वाप्यः प्रस्रवणानि च । सीमासन्धिषु कार्याणि देवतायतनानि च ॥२४८ उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥२४६ अश्मनोऽस्थीनि गोबालांस्तुषान्भस्मकपालिकाः। करीषमिष्टकाङ्गारांश्छर्करा बालुकास्तथा ॥२५०. .,
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy