________________
मनुस्मृतिः।
[अष्टमो पशु स्वामिनां चैव पालानां च व्यतिक्रमे । विषादं सम्प्रवक्ष्यामि यथावद्धर्मतत्त्वतः।।२२६ दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ।।२३० गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् । गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः ॥२३१ नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥२३२ विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ।।२३३ कौँ चर्म च बालांश्च वस्ति स्नायुं च रोचनाम् । पशुशु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् ॥२३४ अजाविके तु संरुद्ध वृकैः पाले त्वनायति । यां प्रसह्य वृको हत्यात्पाले तत्किल्विषं भवेत् ।।२३५ तासां चेदवरुद्धानां चरन्तीनां मिथो वने । यामुत्लुय वृको हन्यान्न पाल तत्र किल्विषी ॥२३६ धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः । शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु ॥२३७ तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुएक्षिणाम् ।।२३८ वृतिं तत्र प्रकुर्वीत यामुष्ट्रो न विलोकयेत् । छिद्रं च वारयेत्सर्व वसूकरमुखानुगम् ।।२३६