SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पुध्यायः] राजधर्मदण्डविधाने वेतनदण्डवर्णनम् । ११ एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः । अत उवं प्रवक्ष्यामि धर्म समयभेदिनाम् ।।२१८ यो प्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । विसंवदेनरो लोभात्तं राष्ट्राद्विप्रवासयेत् ।।२१६ निगृह्य दापयेच्चैनं समयव्यभिचारिणम् । चतुःसुवर्णान् पण्णिष्काश्छतमानं च राजतम् ॥२२० एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः। ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ।।२२१ क्रीत्वा बिक्रीय वा किंचिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्रव्यं दद्याश्चैवाददीत वा ॥२२२ परेण तु दशाहस्य न दद्यानापि दापयेत् । आददानोददच्चैव राज्ञा दण्ड्यः शतानि षट् ।।२२३ यस्तु दोषवती कन्यामनाख्याय प्रयच्छति । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥२२४ अकन्येति तु यः कन्यां ब्रूयाद्वेषेण मानवः । स शतं प्राप्नुयाहण्डं तस्या दोषमदर्शयन् ।।२२५ पाणिग्रहणिका मन्त्राः कन्यारवेव प्रतिष्ठिताः । नाकन्यासु कचिन्नणां लुमधर्मक्रिया हि ताः ॥२२६ पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥२२७ यस्मिन्यस्मिन्कृते कार्य यस्येहानुशयो भवेत् । तमनेन विधानेन धर्म्य पथि निवेशयेत् ॥२२८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy