SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १५० मनुस्मृतिः। [अमो. दक्षिणासु च दत्तासु स्वकर्म परिहापयन् । । कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् ॥२०७ यस्मिकर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः। स एव ता आददीत भजेरन्सर्व एव वा ॥२०८ रथं हरेत चाध्वर्युन ह्माधाने च वाजिनम् । होता वापि हरेदश्वमुद्गाता चाप्यनः क्रये ॥२०६ सर्वेषामद्धिनो मुख्यास्तदर्धेनोर्धिनोऽपरे। तृतीयिनस्तृतीयांशाश्चतुर्थीशाश्च पादिनः ॥२१० संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः । अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥२११ धर्मार्थ येन दत्तं स्यात्कस्मैचिद्याचते धनम् । पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् ।।२१२ यदि संसाधयेत्तत्तु दोल्लोभेन वा पुनः। राज्ञा दाप्यः सुवर्ण स्यात्तस्य स्तेयस्य निष्कृतिः ॥२१३ दत्तस्यैषोदिता धा यथावदनपक्रिया। अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ।।२१४ भृतोऽनातॊ न कुर्याद्यो दात्कर्म यथोदितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ।।२१५ आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितमादितः । सदीर्घस्यापि कालस्य तल्लभेतैव वेतनम् ।।२१६ यथोक्तमार्तः सुस्थो वा यस्तत्कर्म न कारयेत् । नः तस्य वेतनं देयमल्पोनस्यापि कर्मणः ।।२१७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy