________________
१४०
पुण्यायः] राजधर्मदण्डविधानवर्णनम् ।
यस्त्वधर्मेण कार्याणि मोहाकुर्यानराधिपः । अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥१७४ कामक्रोधौ तु संयम्य योऽर्थान्धर्मण पश्यति । प्रजास्तमनुवर्तन्ने समुद्रमिव सिन्धवः ॥१७५ यः साधयन्तं छन्देन वेदयेद्धनिकं मृपे । स राज्ञा तञ्चतुर्भागं दाप्यस्तस्य च सद्धनम् ॥१७६ कर्मणापि समं कुर्याद्वनिकायाधमणिकः। समोऽवकृष्टजातिस्तु दद्याच्छयास्तु सच्छनैः ॥१७७ अनेन विधिना राजा मिथोविवदतां नृणाम् । साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ।।१७८ कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि । महापक्षे धनिन्यायें निक्षेपं निक्षिपेद्बुधः ॥१७६ यो यथा निक्षिपेद्धस्ते यमर्थं यस्य मानवः । स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥१८० यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति।। स याच्यः प्राविवाकेन तनिक्षेप्तुरसन्निधौ ॥१८१ साक्ष्यभावे प्रणिधिभिर्वयोरुपसमन्वितः।। अपदेशैश्च संन्यस्य हिरण्यं तस्य तस्वतः ॥१८२ स यदि प्रतिपद्यते यथान्यस्त यथाकृतम् । न तत्र विद्यते किंचिद्यत्परैरभियुज्यते ॥१८३ तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि । उभौ निगृह्य दान्यः स्यादिति धर्मस्य धारणा ॥१८४